काव्यम्
संस्कृतम्
[सम्पाद्यताम्]- काव्यम्, ग्रन्थ।
नाम
[सम्पाद्यताम्]- काव्यं नाम कवित्वम्।
लक्षाणाः
[सम्पाद्यताम्]- शब्दार्थौ सहितौ काव्यम्-मम्मटः
- रीतिरात्मा काव्यम्।
अनुवादाः
[सम्पाद्यताम्]- आङ्ग्लम्-literature(poems)
- मलयालम्-കാവ്യം സാഹിത്യം
- हिन्दि-काव्य()
- बङ्गाळि-() ()
- फ़्रॆन्च्- (fr)
- रूसीय्- (ru) ()
- जेर्मन्-
- स्पानिष्- (es)
- तेलुगु-కావ్యము
- तमिल्-
- पोलिष्- (pl)
- कन्नड- ಕಾವ್ಯ ()
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काव्यम्, क्ली, (कवेरिदं कर्म्म भावो वा । ष्यञ् ।) ग्रन्थः । इति मेदिनी ॥ रसयुक्तवाक्यम् । यथा, -- “वाक्यं रसात्मकं काव्यं दोषास्तस्यापकर्षकाः । उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः” ॥ एषां प्रत्येकं लक्षणानि लिख्यन्ते । तत्रादौ वाक्य- लक्षणं यथा, -- “वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” ॥ रसलक्षणं यथा, -- “विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम्” ॥ दोषलक्षणं यथा, -- रसापकर्षका दोषास्ते पुनः पञ्चधा मताः । पदे तदंशे वाक्यार्थे सम्भवन्ति रसेऽपि यत्” ॥ गुणलक्षणं यथा, -- “रसस्याङ्गित्वमाप्तस्य धर्म्माः शौर्य्यादयो यथा । गुणा माधुर्य्यमोजोऽथ प्रसाद इति ते त्रिधा” ॥ अलङ्कारलक्षणं यथा, -- “शब्दार्थयोरस्थिरा ये धर्स्माः शोभातिशायिनः ॥ रसादीनुपकुर्व्वन्तोऽलङ्कारास्तेऽङ्गदादिवत्” ॥ रीतिलक्षणं यथा, -- “पदमंधटनारीतिरङ्गसंस्थाविशेषवत् । उपकर्त्री रसादीनां सा पुनः स्याच्चतुर्व्विधा । वैदर्मी चाथ गौडी च पाञ्चाली लाटिका तथा” ॥ इति माहित्यदर्पणम् ॥ * ॥ तत् काव्यं त्रिविधं ध्वनिगुणीभूतव्यङ्ग्यचित्रमेदेन । तत्राद्यास्य लक्षणम् । “इदमुत्तममतिशयिनि व्यङ्ग्य वाच्यात् ध्वनिर्बुधैः कथितः” । हितीयस्य लक्षणम् । “अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु सध्यकम्” ॥ तृतीयस्य लक्षणम् । “शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्” । इति काव्यप्रकाशः ॥ “एतेषां विवरणानि तत्तच्छब्दे द्रष्टव्यानि” ॥
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
KĀVYA (M) : Agni Purāṇa, Chapters 390 to 400 contain a discussion on poetry, which is the basis for literary criticism in India. The above discussion in Agni Purāṇa, comprehends the forms and features of poetry, rasa (sentiment), style, the art of acting and the drama, and other matters related to poetry and art.
_______________________________
*5th word in right half of page 402 (+offset) in original book.